|
|
 |
 |
|
|
११ स्त्रीपर्व.jpg)
॥ श्रीः ॥
11.13. अध्यायः 013
Mahabharata - Strii Parva - Chapter Topics
कृष्णयुधिष्ठिरादिभिर्गान्धारीसमीपगमनम्॥ 1 ॥ गान्धारीं युधिष्ठिरंशप्तुकामां विज्ञाय पूर्वमेवागतेन व्यासेन गान्धार्याः कोपापनोदनम्॥ 2 ॥

Mahabharata - Strii Parva - Chapter Text
वैशम्पायन उवाच। 11-13-0x(5342)(65152)
धृतराष्ट्राभ्यनुज्ञातास्ततस्ते कुरुपुङ्गवाः।
अभ्ययुर्भ्रातरः सर्वे गान्धारीं सहकेशवाः॥ 11-13-1(65153)
ततो ज्ञात्वा हतामित्रं धर्मराजं युधिष्ठिरम्।
गान्धारी पुत्रशोकार्ता शप्तुमैच्छदनिन्दिता॥ 11-13-2(65154)
तस्याः पापमभिप्रायं विदित्वा पाण्डवान्प्रति।
ऋषिर्गन्धवतीपुत्रः प्रागेव समबुध्यत॥ 11-13-3(65155)
स गङ्गायामुपस्पृश्य ब्रह्मर्षिः प्रयतः शुचिः।
तं देशमुपसंपेदे पाराशर्यो मनोजवः॥ 11-13-4(65156)
दिव्येन चक्षुषा ज्ञात्वा मनसाऽनुद्धतेन च।
सर्वप्राणभृतां भावं सततं स तु बृध्यति॥ 11-13-5(65157)
स स्नुषामब्रवीत्काले कल्याणानि महातपाः।
शापकालमवाक्षिप्य शमकालमुदीरयन्॥ 11-13-6(65158)
न कोपः पाण्डवे कार्यो गान्धारि शममाप्नुहि।
रजो निगृह्यतां चैव शृणु चेदं वचो मम॥ 11-13-7(65159)
पुरोक्ता युद्धकाले त्वं पुत्रेण जयमिच्छता।
जयमाशास्व मे मातर्युध्यमानस्य शत्रुभिः॥ 11-13-8(65160)
सा तथा याच्यमाना त्वं युद्धकाले जयैषिणा।
उक्तवत्यसि कल्याणि यतो धर्मस्ततो जयः॥ 11-13-9(65161)
वाचाऽप्यतीते मा क्रोधे मनः कुरु यशस्विनि।
स्मरामि भाषमाणां हि त्वामहं सत्यवादिनीम्॥ 11-13-10(65162)
विग्रहे तुमुले राज्ञां गत्वा परमसंशयम्।
जितं पाण्डुसुतैर्युद्धे नूनं धर्मस्ततोऽधिकः॥ 11-13-11(65163)
क्षमाशीला पुरा भूत्वा साऽद्य न क्षमसे कथम्।
अधर्मे जहि धर्मज्ञे यतो धर्मस्ततो जयः॥ 11-13-12(65164)
सा त्वं धर्मं परिस्मृत्य वाचं चोक्तां मनस्विनी।
कोपं संयच्छ गान्धारि पाण्डवेषु सुतेषु ते॥ 11-13-13(65165)
गान्धार्युवाच। 11-13-14x(5343)
भगवन्नाभ्यसूयामि नैतानिच्छामि नश्यतः।
पुत्रशोकेन तु बलान्मनो विह्वलतीव मे॥ 11-13-14(65166)
यथैव कुन्त्या कौन्तेया रक्षितव्यास्तथा मया।
तथैव धृतराष्ट्रेण रक्षितव्या यथा त्वया॥ 11-13-15(65167)
दुःशासनापराधेन शकुनेः सौबलस्य च।
कर्णदुर्योधनाभ्यां च कृतोऽयं कृरुसंक्षयः॥ 11-13-16(65168)
नापराध्यति बीभत्सुर्न च पार्थो वृकोदरः।
नकुलः सदेवश्च नैव राजा युधिष्ठिरः॥ 11-13-17(65169)
युध्यमाना हि कौरव्याः कृतमामाः परस्परम्।
निहताः सहिताश्चान्यैस्तत्र नास्त्यप्रियं मम॥ 11-13-18(65170)
किं तु कर्माकरोद्भीमो वासुदेवस्य पश्यतः।
दुर्योधनं समाहूय गदायुर्द्ध महामनाः॥ 11-13-19(65171)
शिक्षयाऽभ्यधिकं ज्ञात्वा चरन्तं बहुधा रणे।
अधो नाभ्याः प्रहृतवांस्तन्मे कोपमवर्धयत्॥ 11-13-20(65172)
कथं नु धर्मं धर्मज्ञाः समुद्दिष्टं महात्मभिः।
त्यजेयुराहवे शूराः प्राणहेतोः कथञ्चनः॥ ॥ 11-13-21(65173)
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि त्रयोदशोऽध्यायः॥ 13 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-13-10 न चाप्यतीतां गान्धारि वाचं ते वितथामहम्। स्मरामितोषमाणायास्तथा प्रणिहिता ह्यसि इति झ.पाठे अस्य एनं दुर्योधनं तोषमाणाया आशीर्वचनेन तोषयन्त्यास्ते तव तां तां वाचं वितथां न स्मरामीत्यन्वयः॥ 11-13-13 सा त्वं धर्म परित्यज्य वाचा चोक्त्वा मनस्विनि। इचि छ.ट.पाठः॥ 11-13-18 कृतमानाः कृताहकाराः॥ 11-13-13 त्रयोदशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|